२५६

अन्वहं सौपर्णानि भवन्ति स्वर्ग्याणि स्वर्गस्य लोकस्य समष्ट्यै ।

तदाहुः क्षिप्राणि सामानीश्वरो यजमानं पुरायुषः प्रमथितोः ।

द्वे एव कार्ये पतनायैवेति ।

सं वा एनं तत्साधयन्तीत्याहुः ।

एकमेव कार्यं समष्ट्या एवेति ।

किमु य एनं प्रमथ्नीयुरपि सर्वाण्येव कार्याणि ।

त्रिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकमायन् ।

स एषामसङ्गृहीतो वीवावृह्यत ।

तं गायत्रपार्श्वेणैवोदस्तभ्नुवन्सन्तनिना समतन्वन्सङ्कृतिना समकुर्वंस्त्रिषन्धिना समदधुः श्रायन्तीयेन समश्रीणन्नरिष्टेनारिष्टतामगमयन् ।

तद्यदेतानि सामानि भवन्ति त्रिरात्रस्यैवोत्तब्ध्यै त्रिरात्रस्य सन्तत्यै त्रिरात्रस्य सङ्कृत्यै त्रिरात्रस्य संहित्यै त्रिरात्रस्य संश्रित्यै त्रिरात्रस्यारिष्टतायै ।

षळं ककुभि स्वारमुष्णिहि ।

त्रिरात्रमेवैतन्मध्यतो व्यतिषजन्त्यनवस्रंसाय २५६