२५५

अन्वहमाजिदोहानि भवन्ति ।

प्राणा वा आजिदोहानि ।

यदन्वहमाजिदोहानि भवन्ति ।

प्राणेष्वेव तत्प्रतितिष्ठति ।

अन्वहमाजिदोहानि भवन्ति ।

पशवो वा आजिदोहानि ।

यदन्वहमाजिदोहानि भवन्ति पशुष्वेव तत्प्रतितिष्ठति ।

अन्वहमाजिदोहानि भवन्ति ।

इमे वै लोका आजिदोहानि ।

यदन्वहमाजिदोहानि भवन्त्येष्वेव तल्लोकेषु प्रतितिष्ठति ।

अग्निराजिदोहं वायुराजिदोहमसावादित्य आजिदोहम् ।

यदन्वहमाजिदोहानि भवन्त्येतास्वेव तद्देवतासु प्रतितिष्ठति ।

इमे वै लोका आजयो नाम ।

एतेषामेते दोहाः ।

दुह इमाल्ँ लोकान्य एवं वेद ।

अन्वहमर्का भवन्त्यन्नं वा अर्कोऽन्नाद्यस्यैवावरुद्ध्यै ।

स्वाशिरामर्कः प्रथमेऽहनि भवति ।

आपो वै स्वाशिरः ।

अन्नमु वा आपः ।

नो वा अनवसोऽध्वानं समश्नुते ।

अग्नेरर्को द्वितीयेऽहनि भवति ।

अन्तरिक्षायतनं वै द्वितीयमहः ।

अस्तमेवान्तरिक्षं तमस्सहचयानि रक्षांस्यग्निर्वै रक्षसामपहन्ता रक्षसामेवापहत्यै ।

दीर्घतमसोऽर्कस्तृतीयेऽहनि भवति ।

जागतो वै दीर्घतमसोऽर्कः ।

जागतं तृतीयमहः ।

अहरेव तद्रू पेण समर्धयन्ति २५५