२५४

प्रजापतिर्यदग्रे सहस्रमसृजत तत्प्रजाभ्यः प्रायच्छदेतद्वस्सहेति ।

यत्सहेत्यब्रवीत्तत्सहस्रस्य सहस्रत्वम् ।

तस्मादु ह सहस्रीव सतिरेव स्यात् ।

सहेति ह्यब्रवीत् ।

सा यो हैनस्तत्रावास्यमानो ब्रूयादा ते सहस्रस्य पयो दद इति तथा हैव स्यात् ।

ते देवा ईशानं देवमब्रुवंस्त्वं वै न श्रेष्ठोऽसि ।

तमुद्धारमुद्धरस्वेति ।

स एतानि त्रीणि सामानि सहस्रस्य रसं प्रावहतर्त्तनिधनमीनिधनं त्रिणिधनमिति ।

तानि वा एतानि सामानि सहस्रत्रिरात्रेण कार्याणीशानस्य देवस्योद्धार उद्धृतानि ।

उदुद्धारं हरत उद्धार्यो भवति य एवं वेद ।

तस्मादेतानि सामानि सहस्रत्रिरात्रेण कार्याणीशानस्य देवस्याखलस्य सामानीश्वरो यजमानस्य पशूनभिमन्तोरिति ।

अपरसमिव तु हास्य सहस्रं दत्तं स्यात् ।

कार्याण्येव सहस्रस्य धरतायै ।

प्रजाप्तिर्यद्देवेभ्यस्सहस्रं प्रायच्छत्तदप्रतीक्षमाणा एवादन् ।

तद्देवेभ्योऽद्यमानं तिरोऽभवत् ।

तदन्वमन्त्रयन्त ।

तदब्रवीत्क्षयाद्वै बिभेमीति ।

नेत्यब्रुवन् ।

तथा वै त्वात्स्यामो यथा नोऽद्यमानं पीयमानं न क्षेष्यस इति ।

तस्मै वै म ऋतं कुरुतेति ।

तस्मा ऋतनिधनेनैवर्तमकुर्वनीनिधनेनादयन्प्र चैवैनत्त्रिणिधनेनाजनयन्नक्षितिं चास्मा अकुर्वन् ।

अद्यमानमस्य सहस्रं न क्षीयते य एवं वेद २५४