२५२

प्रजापतिर्वावेदमग्र आसीत् ।

सोऽकामयत बहुः स्यां प्रजायेय भूमानं गच्छेयमिति ।

स तपोऽतप्यत ।

स वाचमसृजत ।

वाचो गां निरमिमीत ।

स षक्षतालं वै तस्मा अस्मि यत्सृजेयेत् ।

तदन्नं लभेत यत्सृजेय हन्त सृजा इति स वसूनसृजत स रुद्रा न्स आदित्यान् ।

तं वसव उपासीदन्नस्तु न स्वमिति ।

तेभ्य एतां गां प्रायच्छत् ।

तां संवत्सरमरक्षन्त ।

सैभ्यस्संवत्सरे त्रयस्त्रिंशतं च त्रीणि च शतानि प्राजनयत् ।

तां पुनराजायत ।

तं रुद्रा उपासीदन्नस्तु न स्वमिति ।

तेभ्य एतां गां प्रायच्छत् ।

तां संवत्सरमरक्षन्त ।

सैभ्यस्संवत्सरे त्रयस्त्रिंशतं च त्रीणि च शतानि प्राजनयत् ।

तां पुनराजायत ।

तमादित्या उपासीदन्नस्तु न स्वमिति ।

तेभ्य एतां गां प्रायच्छत् ।

तां संवत्सरमरक्षन्त ।

सैभ्यस्संवत्सरे त्रयस्त्रिंशतं च त्रीणि च शतानि प्राजनयत् ।

तत्सहस्रमभवत् ।

सैव सहस्रतमी ।

तां पुनराजायत ।

स यो हैवं विद्वान्गा रक्षते प्र हैवास्य सहस्रमाप्नुवन्ति ।

तस्मादु हैवंविदा रक्षितव्या एव गावस् ।

तेऽब्रुवन्नलं वै तस्मै स्मो यत्सहस्रेण यजेमहि ।

एत सहस्रेण यजामहा इति २५२