२५१

तदाहुर्नामुष्मिल्ँ लोके सहस्रस्यावकाशोऽस्ति ।

आत्मने वैव न वात्मने चनेति ।

तदाहुः कियदित स्वर्गो लोक इति ।

यावत्सहस्रं गौर्गव्यधि प्रतिष्ठिता तावदिति ब्रूयात् ।

अथो यावत्सहस्रं प्राणैस्सं प्रानन्तीत्यथो यावत्सहस्रमाश्वीनानीत्यथो यावत्सहस्रं योजनानीत्यथो यावत्सहस्रमह्न्यानीति ।

तद्गवा गवैवाप्नोति ।

सा यैषा शबली पष्ठौह्युपैनमेषामुष्मिल्ँ लोके कामदुघा भूत्वा तिष्ठते य एवं वेद ।

तार्प्यं प्रत्यस्य दक्षिणा नयति सहस्रस्य सयोनितायै ।

सहस्रं वै यदसृजत तस्य तार्प्यमेव योनिरासीत् ।

तद्यत्तार्प्यं प्रत्यस्य स दक्षिणा नयति सयोन्येव तत्सहस्रं करोति ।

उप हैनं सहस्रं ददिवांसं सयोनिसहस्रं तिष्ठते य एवं वेद ।

सा या सहस्रतमी स्यात्तस्यै कर्णमाजपेदिळे रन्ते महि विश्रुति शुक्रे चन्द्रे हव्ये काम्येऽदिते सरस्वत्येतानि तेऽघ्न्ये नामानि देवेषु नस्सुकृतो ब्रूतादिति ।

सुकृतं ह वा एनं देवेष्वाह ।

तां कलशमपघ्रापयत्यपजिघ्र कलशं मह्या त्वा विशन्त्विन्दवस्सा नो धुक्षस्सहस्रमुरुधारा पयस्वतीति ।

उप हैनं सहस्रं ददिवांसं सहस्रं तिष्ठते य एवं वेद २५१