२५०

तामब्रुवन्सोमायोदेहि तृतीयेन चात्मनस्तृतीयेन च सहस्रस्येति ।

सा बभ्रुः पिङ्गाक्ष्युदैत्तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य ।

सैषा सोमक्रयणी ।

तृतीयेन च ह वै तस्यै तृतीयेन च सहस्रस्य सह सोमो राजा क्रीतो भवति ।

ताम्पुनरेवाप्सु प्रावेशयन् ।

तामब्रुवन्निन्द्रा योदेहि तृतीयेन चात्मनस्तृतीयेन च सहस्रस्येति ।

सा शबली पष्ठौह्युदैत्तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य ।

सैषेन्द्रे ष्या दीयते ।

तृतीयेन च ह वै तस्यै तृतीयेन च सहस्रस्य सह सा दत्ता भवति ।

ताम्पुनरेवाप्सु प्रावेशयन् ।

तामब्रुवन्यमायोदेहि तृतीयेन चात्मनस्तृतीयेन च सहस्रस्येति ।

सा धूम्रा दित्यौह्युदैदीर्मतो ह्रसीयसी पश्चाद्वर्षीयसी जरती वाकुष्ठाशृङ्गी तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य ।

सैषानुस्तरणी ।

तृतीयेन च ह वै तस्यै तृतीयेन च सहस्रस्य सह सानुस्तरणी कृता भवति ।

नो हाचक्रुरिव मन्येत २५०