इन्द्रो वै मरुतस्सहस्रमेतेन ह वै तदेनेनेन्द्रा ग्नी मरुतः सहस्रं जिग्यतुः । अजिनोत्स्वां विशं सोमाय राज्ञे प्रतिप्रोच्य ।
तदनुकृतीदमप्येतर्हि राज्ञे प्रतिप्रोच्य विशं जिन्वन्ति ।
तद्यमोऽन्वबुध्यत सहस्रमज्यासिष्टामिति ।
स आगच्छत् ।
स एत्याब्रवीदुप मास्मिन्सहस्रे ह्वयेथामिति ।
तथेति ।
तमुपाह्वयेताम् ।
स यमोऽस्मिन्सहस्रेऽपि गामपश्यत्सहस्रस्य गवां पयो बिभ्रतीम् ।
तामब्रवीदियमेव मम युवयोरेतदितरदिति ।
तावितरावब्रूतां यद्वाव त्वमेतस्यां पश्यसि तदावं पश्याव इति सोऽब्रवीत्तया वा एता एव विकरवामहा इति ।
ते तयैव व्यकुर्वत ।
तेऽब्रुवन्नंशानाहरामहै यस्मै नः प्रथमैष्यति ।
तेऽक्त्!आआहरन्त ।
सोमस्य प्रथमैत् ।
अथेन्द्र स्याथ यमस्य ।
तामप्सु प्रावेशयन् २४९