२४८

वागेवेति ।

गायत्रं वै त्रिरात्रस्य प्रथममहस्त्रैष्टुभं द्वितीयं जागतं तृतीयम् ।

यद्वा अन्यस्य त्रिरात्रस्य विलोम तसस्य सलोम यसस्य सलोम तदन्यस्य विलोम ।

तद्यदेतत्परं सदहरवरं क्रियते यजमानायैव तत्पशून्प्रजनयन्ति न ह्यमुष्मिंल्लोके पशवः प्रजायन्ते ।

एते ह खलु वै छन्दसां वीर्यवत्तमे यद्गायत्री च त्रिष्टुप्च ।

तद्यद्गायत्री च त्रिष्टुप्चाभितो भवतो मध्ये पशवो जगती वीर्यवद्भ्यामेवैतच्छन्दोभ्यां यजमानायोभयतः पशून्परिगृह्णन्त्यपरावापाय ।

नास्य वित्तं परोप्यते य एवं वेद ।

असावेव त्रिरात्रो योऽसौ तपति ।

स यथोदेत्येवमस्य प्रथममहर्यथा मध्यन्दिन एवं द्वितीयं यथास्तमेत्येवं तृतीयम् ।

स य एतदेवं वेद गच्छत्येतस्य सायुज्यं सांवेश्यम् २४८