वाग्देवत्यं वै त्रिरात्रस्य प्रथममहः प्राणदेवत्यं द्वितीयं चक्षुर्देवत्यं तृतीयम् ।
तदाहुः कियांस्त्रिरात्र इति ।
इयानिति ब्रूयात् ।
इयद्ध्येवैतदिति ।
अथो इयानिति ब्रूयात् ।
इयद्ध्येवैतदिति ।
तदाहुरर्वाङ्त्रिरात्रा३ः परा३ङिति ।
पराङिति ब्रूयात् ।
पराङ्हि वदति पराङ्प्राणिति पराङ्पश्यति पराङ्छृणोति ।
अथो ह ब्रूयादर्वाञ्च पराञ्चेति ।
अर्वाञ्च हि पराञ्च वदत्यर्वाञ्च पराञ्च प्राणित्यर्वाञ्च पराञ्च पश्यत्यर्वाञ्च पराञ्च शृणोति ।
तदाहुरेकस्त्रिरात्रा३उ द्वा३उ त्रया३इति ।
एक इति ब्रूयात् ।
एको ह्येवैष यत्प्राणोऽपानो व्यान इति ।
तदाहुरेकं भूया३स्सहस्रा३मिति ।
एकमिति ब्रूयात् ।
एकं ह्येव भूयस्सहस्रात्सङ्ख्याने भवति २४७