२४६

इदमेव प्रथमेनाह्ना व्यकरोद्यदस्यामायत्तमूलमिदं द्वितीयेन यत्प्राणदेजत्यदस्तृतीयेन यद्वर्षति यन्नक्षत्राणि यदमुं लोकं भेजे ।

महाव्रतं वा एतद्यदेष त्रिरात्रस्य ।

यान्येतेषामह्नां बहिष्पवमानानि तच्छिरः ।

येऽभितोऽहनी तौ पक्षौ ।

यन्मध्यममहस्स आत्मा ।

अग्निष्टोमसामान्येव पुच्छम् ।

अथो आहुर्यदेवासावुदेति तच्छिरः ।

येऽभितोऽहनी तौ पक्षौ ।

यन्मध्यममहस्स आत्मा ।

अग्निरेव पुच्छम् ।

अथो आहुर्य एवासावुदेति तच्छिरः ।

येऽभितोऽहनी तौ पक्षौ ।

यन्मध्यममहस्स आत्मा ।

यदेवास्तमेति तत्पुच्छमिति २४६