यथो ह वै मणौ मणिसूत्रमोतं स्यादेवमेषु लोकेषु त्रिरात्र ओतः ।
शोभतेऽस्य मुखं य एवं वेद ।
एषा ह खलु वै प्रत्यक्षं वाग्यज्जिह्वाग्रेणैतद्वाचो वदति यदेति ।
मध्येनैतद्वाचो वदति यद्केति ।
सर्वयैतद्वाचो रसोऽध्यूर्ध्व उद्वदति यद्धो इति ।
हो इति हि सर्वा वाक् ।
तद्यदेतानि रूपाण्याज्येषु चाहस्सु च नियुज्यन्ते ।
मुखत एवैतद्वाचं विसृजन्ते मुखतो याज्ञियं कर्म ।
प्रजापतिर्यद्वाचं व्यसृजत साक्षरदेव ।
तस्या एत्येव प्रथममक्षरं क्षेति द्वितीयं रदिति तृतीयम् ।
तद्येन येन वै रूपेण प्रजापतिर्वाचं व्यसृजत तेन तेन रूपेणाज्यान्यारभ्यन्ते तेन तेनाहान्याप्यन्ते ।
अक्षरेष्ठा ह खलु वा एष यज्ञो यस्त्रिरात्रः ।
अक्षरं त्र्यक्षरं ।
त्र्यक्षरस्त्रिरात्रः ।
अक्षरं त्रिरात्रः ।
स ह वा एनं वेद य एनं पुरुषसम्मितं वेद पुरुषस्त्रिरात्रः २४५