२४४

प्रजापतिर्वा इदमग्र आसीत् ।

नान्यं द्वितीयं पश्यमानस्तस्य वागेव स्वमासीद्वाग्द्वितीया स षक्षत हन्तेमां वाचं विसृजै ।

इयं वावेदं विसृष्टा सर्वं विभवन्त्येष्यन्तीति ।

तां वागित्येव व्यसृजत ।

सोर्ध्वोदातनोद्यथापां धारा सन्ततैवम् ।

तस्या एत्येकमक्षरमच्छिनत् ।

तदिदमभवत् ।

अभूद्वा इदमिति ।

तद्भूमेर्भूमित्वम् ।

केति द्वितीयम् ।

तदिदमन्तरिक्षमभवत् ।

अन्तरेव वा इदमुभयमभूदिति ।

तदन्तरिक्षस्यान्तरिक्षत्वम् ।

हो इति तृतीयमूर्ध्वमुदास्यत् ।

तद्द्यौरभवत् ।

अद्युतदिव वा अद इति ।

तद्दिवो दिवत्वम् ।

प्रजापतिर्वा इदमग्र एकाक्षरां वाचं त्रेधा व्यभजत् ।

त इमे लोका अभवनृक्षा अनुपजीवनीयाः ।

सोऽशोचत्सोऽतप्यत ।

स षक्षत कथमिमे लोका लोम गृह्णीयुः कथमुपजीवनवन्त स्युरिति ।

स एतं त्रिरात्रं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

तमेषु लोकेष्वन्वायातयत् ।

ततो वा इमे लोका लोमागृह्णंस्तत उपजीवनवन्तोऽभवन् ।

त्रिरात्रस्य ह खलु वा इदं पुष्ठं त्रिरात्रस्योदरणं यदेषु लोकेष्वधि ।

गच्छति पशूनां द्विपदां चतुष्पदां भूमानं य एवं वेद २४४