२४३

तौ वै पृच्छावहा इति ।

तौ ह प्रजापतावपृच्छेताम् ।

ताभ्यां हैतया व्युवाच

उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः

इन्द्र श्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम्

इति ।

द्वौ तव भागावितीन्द्र मब्रवीत्तृतीयं तवेति विष्णुम् ।

एतदाभ्यां तत्सहस्रं प्रायच्छत् ।

तस्यैषाप्तिर्यो बन्धुमाननूचान स्यात्तस्मै प्रथमेऽहनि दद्यात् ।

यथा इयं पृथिव्येवं सः ।

प्रतिष्टिःता वा इयं प्रतिष्ठितस्सः ।

अथ योऽबन्धुरनूचान स्यात्तस्मै द्वितीयेऽहन्दद्यात् ।

यथा वा इदमन्तरिक्षमेवं सः ।

अन्तरिक्षमिति वा इदं विदुर्वेदं तस्य विदुः ।

अथ यो बन्धुमानननूचान स्यात्तस्मै तृतीयेऽहनि दद्यात् ।

यथा वा असौ द्यौरेवं सः ।

द्यौरिति वा अमुं विदुर्बन्धु तस्य विदुः ।

अन्वहं दशतो दीयन्ते ।

दशाक्षरा विराट् ।

वैराजो यज्ञः ।

सैव सा व्यवच्छिन्ना दीयते ।

अन्वहं शतानि दीयन्ते ।

एषा वै यज्ञस्य मात्रा यच्छतम् ।

सैव सा व्यवच्छिन्ना दीयते ।

त्रयस्त्रिंशतं च त्रीणि च शतानि प्रथमेऽहनि दद्यात् ।

त्रयस्त्रिंशतं च त्रीणि च शतानि द्वितीयेऽहनि दद्यात् ।

त्रयस्त्रिंशतं च त्रीणि च शतानि तृतीयेऽहनि दद्यात् ।

अथैषा सहस्रतमी त्रिरूपा द्विदेवत्या ।

तस्यै द्वौ भागौ ब्रह्मण एकोऽग्नीधः २४३