\वसवो रुद्रा आदित्याः ।
तेषामेति ज्योतिरग्रं यदसावादित्यः ।
त्रयो घर्मास उषसं सचन्त इत्यग्निरुषसं सचते वायुरुषसं सचत आदित्य उषसं सचते ।
सर्वं इत्तं अनु विदुर्वसिष्ठा इति ये वै ब्राह्मणाश्शुश्रुवांसस्ते वसिष्ठास्ते ह्येतत्सर्वं अनु विदुः ।
एतावान्वाव त्रिरात्रः ।
गायत्रः प्राणस्त्रैष्टुभं चक्षुर्जागतं श्रोत्रम् ।
त्रीणि मिथुनानि तान्येषु मिथुनं द्वे सम्भवतो यन्मिथुनात्प्रजायते तत्तृतीयम् ।
इन्द्रो वृत्राय वज्रमुदयच्छत् ।
तं विष्णुरन्वतिष्ठत् ।
सोऽब्रवीदस्ति वा इदं त्यस्मिंस्तेज इन्द्रि यं वीर्यम् ।
तत्त आहराणि ।
मा मे प्रहार्षीरिति ।
तथेति ।
तदस्मै प्रायच्छत् ।
तद्विष्णुः प्रत्यगृह्णात् ।
तस्मै द्वितीयमुदयच्छत् ।
तं विष्णुरन्वतिष्ठत् ।
सोऽब्रवीदस्ति वा इदं त्यस्मिंस्तेज इन्द्रि यं वीर्यम् ।
तत्त आहराणि ।
मा मे प्रहार्षीरिति ।
तथेति ।
तदस्मै प्रायच्छत् ।
तद्विष्णुः प्रत्यगृह्णात् ।
तस्मै तृतीयमुदयच्छत् ।
तं विष्णुरन्वतिष्ठत् ।
सोऽब्रवीदस्ति वा इदं त्यस्मिंस्तेज इन्द्रि यं वीर्यम् ।
तत्त आहराणि ।
मा मे प्रहार्षीरिति ।
तथेति ।
तदस्मै प्रायच्छत् ।
तद्विष्णुः प्रत्यगृह्णात् ।
तस्मिन्होदाते सर्वं ममेतीन्द्र स्तृतीयं ममेति विष्णुः २४२