२४१

अथैते त्रिरात्राः ।

त्रिरात्रेण वै देवा एषु लोकेष्वार्ध्नुवंस्त्रिरात्रेण स्वर्गं लोकमायन् ।

वाग्वै त्रिरात्रः ।

वाचो रूपेणाज्यानि चाहानि च विभज्यन्ते ।

एकाक्षरा वै वाक्त्र्यक्षरमक्षरम् ।

अक्षरस्य रूपेण विभज्यन्ते ।

त्रयो गन्धर्वाः ।

तेषामेषा भक्तिरग्नेः पृथिवी वायोरन्तरिक्षमसाव्यथा वा असौ द्यौरेवं सः । आदित्यस्य द्यौः ।

तदेषाभ्यनूच्यते

त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः

त्रयो घर्मास उषसं सचन्ते सर्वं इत्तं अनु विदुर्वसिष्ठाः

इति ।

तद्यदाह त्रयः कृण्वन्ति भुवनेषु रेत इत्यग्निः पृथिव्यां रेतः कृणोति वायुरन्तरिक्ष आदित्यो दिवि तिस्रः प्रजा आर्या ज्योतिरग्रा इति २४१