२४०

अथ यस्यैतस्य त्रिवृत्पञ्चदशः सप्तदश इति पूर्वमहर्भवत्येकविंशस्त्रिणवस्त्रयस्त्रिंश इत्युत्तरं स्वर्गकामो हैतेन यजेत ।

ऊर्ध्वा एते स्तोमा भवन्ति ।

ऊर्ध्वो वै स्वर्गो लोकः ।

स्वर्गस्यैव लोकस्य समष्ट्यै ।

अभिक्रान्तस्तोमा भवन्ति ।

अभिक्रान्तेन ह वै यज्ञस्य भुञ्जते ।

एतेन ह वै तद्धविष्मांश्च हविष्कृच्च सद्य स्वर्गं लोकमीयतुः ।

तस्य पराञ्च्येव स्तोत्राणि भवन्ति पराञ्चि शस्त्राणि भवन्ति पराञ्चि पृष्ठानि पराचीर्विष्टुतयः पराङेव सर्वो भवति ।

तेन हैतेनोत्तरवयस्येव यजेत यदेमं लोकं न प्रत्यवकाङ्क्षेद्यदास्मिल्ँ लोके न निधित्सेद्यदास्माल्लोकादमुमेव लोकमभिसम्प्रजिगांसेत् ।

स हैनेन यजेत ।

इष्ट्वा हैव स्वर्गं लोकमेति ।

तस्मिन्नु ह तर्ह्युभे हाविष्मतहाविष्कृते कुर्यु स्वर्ग्ये स्वर्गस्य लोकस्य समष्ट्यै ।

तस्याहुस्सप्त च शतानि विंशतिश्च स्तोत्र्यास्सम्पादयेयुरिति ।

तावन्ति संवत्सरस्याहोरात्राणि ।

संवत्सरादेव तन्न यन्ति ।

अथो आहुर्यावतीरेवैतस्य ज्योतिर्गौरायुरिति त्र्यहस्य स्तोत्र्यास्तावतीरस्य स्तोत्र्यास्सम्पादयेयुरिति ।

तेन त्र्यहरूपान्न यन्ति ।

अथो आहुस्सहस्रमेवास्य स्तोत्र्यास्सम्पादयेयुरिति ।

सहस्रं वै त्रिरात्रस्य स्तोत्र्याः ।

त्रिरात्ररूपादेव तन्न यन्ति ।

एष ह वै समृद्धो द्विरात्रो यस्त्रिरात्रस्य सम्पदा तायते यो वा त्रिरात्रश्चतूरात्रस्य २४०