२३९

तद्धानुबुध्योवाच यथादैवं त्यस्य प्रजाया अस्तु ।

खलती देवेदेवोऽहं दैवोवाती अवाच्छित्सीति ।

तथा हैनं तावभितेपतुस्तथाभिशुशुचतुः ।

तदिदं तदेव ।

इमे हाभिप्रतारणा इयन्तो नो अपरस्तादृङ्वीर आजायते ।

अथ यस्यैतस्यत्रिवृत्पञ्चदशाभ्यां विपर्यासम् ।

पूर्वमहरग्निष्टोमो भवति ।

सर्वस्तोमोऽतिरात्र उत्तरम् ।

प्रजननकामो हैतेन यजेत ।

त्रिवृत्पञ्चदशौ स्तोमौ भवत ऊनातिरिक्तौ मिथुनौ प्रजनी ।

ऊनमन्यस्यातिरिक्तमन्यस्य ।

ऊनातिरिक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते ।

तत्तत्प्रजननं क्रियते ।

तस्य रथन्तरं पृष्ठं भवति ।

प्रजननं वै रथन्तरम् ।

तत्तत्प्रजननं क्रियते ।

तस्य द्वादश स्तोत्राणि भवन्ति ।

द्वादश मासास्संवत्सरः ।

संवत्सरः प्रजननम् ।

तत्तत्प्रजननं क्रियते ।

तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति ।

चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सरः प्रजननम् ।

तत्तदभिपूर्वं प्रजननं क्रियते ।

प्र प्रजया पशुभिर्जायते य एवं वेद ।

सर्वस्तोमोऽतिरात्रो भवति सर्वेषां लोकानामभिजित्या अभिक्रान्त्यै ।

सर्वं हीदं स्तोमा एव ।

अथो यानिमानेकैकान्स्तोमानुपागाम तान्सार्धमृद्ध्वा तेषु । प्रतिष्ठायोदृचमश्नवामहा इति २३९