२३८

अथ यस्यैतस्य ज्योतिरुक्थ्यः पूर्वमहर्भवत्यायुरतिरात्र उत्तरमेतेनो हाभिप्रतारण ईजे राजा प्रजाकामश्च खलती च दैवोवाती अवचिच्छित्समानः ।

ततो वै सोऽव खलती दैवोवाती अच्छिन्त्त ।

इमामियतीं प्रजामध्यगच्छत् ।

त्रीण्यन्यस्यातिरिच्यन्ते द्वाभ्यामन्य ऊनः ।

त्रीणि तानि पुंसोऽतिरिक्तानि यैस्स प्रजनयति ।

द्वे ते स्त्रिया ऊने यतस्सा प्रजायते ।

तदेतन्मिथुनं प्रजननं क्रियते ।

मिथुनेन प्रजननेन प्रजायते य एवं वेद ।

ता उभे स्तोत्र्यास्सम्पद्यन्ते सप्त च शतान्येकविंशतिश्च तावन्ति संवत्सरस्याहोरात्राणि ।

अहोरात्रे वै कृत्स्नः प्रजापतिः कृत्स्नं प्रजापतिमृध्नवाम कृत्स्नो नः प्रजापतिरुपेतोऽसदिति ।

अथ यैका स्तोत्र्यातिरिच्यते यजमानलोको हैव सः ।

शश्वद्धैनं ब्राःमण उवाच नास्यापरः प्रजायामेतादृङ्वीरोऽनाजानितोः ।

आत्मन एव लोकमकृत न प्रजाया एकमिमं ह्येव लोकमभ्युपागादिति २३८