विच्छिन्न इव ह खलु वा एष यज्ञक्रतुर्यद्द्विरात्रः ।
गायत्रीं पूर्वमहस्सम्पद्यते त्रिष्टुभमुत्तरम् ।
अथ क्व जगती चानुष्टुप्चेत्याहुः ।
गायत्रीं चैव पूर्वमहस्सम्पादयेत्त्रिष्टुभं च जगतीं चानुष्टुभं चोत्तरं छन्दसां सन्तत्या अव्यवच्छेदाय ।
उच्चा ते जातमन्धसेत्यन्धस्वतीर्भवत्यन्धस्वद्वै जगत्यै रूपं तेन जगत्यै रूपान्न यन्ति ।
वैखानसं भवति जागतं साम ।
तेनैव जगत्यै रूपान्न यन्ति ।
ये द्वे सामनी तयोरन्यतरद्भवति यथोभयापदी प्रतितिष्ठेत्तादृक्तत् ।
सुवर्ज्योतिर्भवति ।
सुवर्वै पूर्वमहर्ज्योतिरुत्तरमह्नोरेव सन्तत्या अह्नोस्समारम्भाय ।
हाविष्मतहाविष्कृते स्वर्ग्ये सामनी स्वर्गस्य लोकस्य समष्ट्यै ।
तदाहुः क्षिप्रे सामनी यदुभे कुर्युरीश्वरो यजमानं पुरायुषः प्रमथितोरनादृत्य हि ताविमं लोकममुमेव लोकमभिसम्प्रैतामिति ।
हाविष्मतमेवोत्तरस्याह्न उक्थेषु ब्रह्मसाम कुर्युः ।
तथा सर्वमायुरेति गच्छति स्वर्गं लोकम् २३७