सुदुष्षज इव ह खलु वा एष यज्ञक्रतुर्यद्द्विरात्रः ।
यदि ज्योतिरग्निष्टोमः पूर्वमहर्भवति सर्वस्तोमोऽतिरात्र उत्तरं स्तोत्राणि विच्छिन्दन्ति ।
अथ यदि ज्योतिरग्निष्टोमः पूर्वमहर्भवति सर्वस्तोम उ एवातिरात्र उत्तरं स्तोत्राणि विच्छिन्दन्ति ।
अथ यदि ज्योतिरुक्थ्यः पूर्वमहर्भवति सर्वस्तोम उ एवातिरात्र उत्तरं यज्ञमुखं छम्बट्कुर्वन्ति ।
तद्यज्ज्योतिर्भवति तेन यज्ञमुखं न छम्बट्कुर्वन्ति ।
अथ यदुक्थ्यस्तेन स्तोत्राणि न विच्छिन्दन्ति ।
आप्त इव ह खलु वा एष यज्ञक्रतुर्यो विराजमभिसम्पन्नः ।
स पुनरारम्भ्यो भवति ।
त्यद्यदुत्तरस्याह्नश्चतुर्विंशं बहिष्पवमानं भवति चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरो यज्ञो यज्ञमेवैतद्यज्ञमुख आरभन्ते ।
अथो चतुर्विंशत्यक्षरा वै गायत्री ।
गायत्र्यो वा आप्तं यज्ञक्रतुं पुनस्तन्वते ।
नो ह्यन्या गायत्र्या आप्तं यज्ञक्रतुमुद्यन्तुमर्हति ।
तदाहुः कथं न चतुश्चत्वारिंशो नाष्टाचत्वारिंशो मुखं युग्मतां स्तोमानां भवितुमर्हति ।
कथं चतुर्विंश एवेति ।
स ब्रूयात्त्रिपदा वै गायत्री ।
तत्त्रिपदा प्रतिपद्यन्त इति ।
सर्वस्तोमोऽतिरात्रो भवति सर्वेषां लोकानामभिजित्या अभिक्रान्त्यै ।
सर्वं हीदं स्तोमा एव ।
अथो यानिमानेकैकान्स्तोमानुपागाम तान्सार्धमृद्ध्वा एषु प्रतिष्ठायोदृचमश्नवामहा इति २३६