इत्येकाहं समाप्तम्
अहीनम्
अथैते द्विरात्राः ।
हविष्मांश्च वै हविष्कृच्चाङ्गिरसावास्ताम् ।
तावस्मिल्ँ लोके स्त्रीचर्यं प्रमत्तौ चरन्तावृषयोऽङ्गिरसः पितरश्च पितामहाश्च सुकृतो हित्वा स्वर्गं लोकमायन् ।
तौ यदा सा चर्या परैदथाकामयेतां कथं न्विद्यत्र नावृषयोऽङ्गिरसः पितरश्च पितामहाश्च सुकृत स्वर्गं लोकमितास्तदनुगच्छेवेति ।
तौ तपोऽतप्येताम् ।
तावेतद्द्विरात्रं यज्ञमपश्यताम् ।
तमाहरेताम् ।
तेनायजेताम् ।
ततो वै तौ यत्रैनयोरृषयोऽङ्गिरसः पितरश्च पितामहाश्च सुकृत स्वर्गं लोकमिता आसंस्तदन्वगच्छताम् ।
स यःकामयेत यत्र मे पितरश्च पितामहाश्च सुकृत स्वर्गं लोकं इतास्तदनुगच्छेयमिति स एतेन यजेत ।
यत्र हैवास्य पितरश्च पितामहाश्च सुकृत स्वर्गं लोकमिता भवन्ति तदेवानुगच्छति ।
अथो आहुर्यस्मादेव श्रेयान्भ्रातृव्य स्यात्स एनेन यजेतेति ।
पूर्वप्रेत इव ह वा एष य श्रेयान् ।
पूर्वप्रेतानिव वा एतेन तौ तानाप्नुताम् ।
आप्त्वा श्रेयांसं वसीयानात्मना भवति ।
अथो आहुः प्रजाकाम एवैनेन यजेतेति ।
आत्मा वै पूर्वमहः प्रजोत्तरम् ।
आत्मानमेव पूर्वेणाह्ना संस्कुरुते प्रजामुत्तरेण २३५