अथ यन्माहेन्द्रः ।
इन्द्रो ह वा एष पुरा वृत्रस्य वधादास ।
स वृत्रं हत्वा महेन्द्रो ऽभवत् ।
भूयो ह्येव ज्यायसा कर्मणाऽभ्यश्नुते ।
तस्मादु राजानं विजितिनमाचक्षते महाराज इति ।
अथैष शुनासीर्यो यद्वा इन्द्र स्य वृत्रं जघ्नुष इन्द्रि यं वीर्यमासीत्तच्छुनम् ।
यत्संवत्सरस्य प्रजितस्य पयस्तत्सीरम् ।
तद्यदिन्द्र स्य वृत्रं जघ्नुष इन्द्रि यं वीर्यं यत्संवत्सरस्य प्रजितस्य पयस्तदुभयमवरुणधामहा इति ।
संवत्सरसद्ध खलु वा एष यश्चातुर्मास्ययाजी ।
तस्य शुनासीर्यं मे महाव्रतं भाजनम् ।
स यावत्संवत्सरेण महाव्रतवतावरुन्द्धे तावदवरुन्द्धे य एवं वेद ।
तस्य सौरी प्रतिपद्भवति सौर्युपालम्भ्या ।
असौ वा आदित्यः ।
सूर्य एष इन्द्रः ।
षन्द्रं महाव्रतं तत्तत्सलक्ष्म क्रियते ।
ऋतुषु ह खलु वा एष संवत्सरं स्वर्गं लोकमप्येति यश्चातुर्मास्ययाजी ।
स वसन्तमेव प्रथमेनाह्नाप्येति ग्रीष्मं द्वितीयेन वर्षास्तृतीयेन शरदं चतुर्थेन हेमन्तं पञ्चमेन शिशिरं षष्ठेन ।
संवत्सरमेव शुनासीर्येणाप्येति ।
स सर्वस्तोमो भवति ।
सर्वं हि तद्यत्सर्वस्तोमः ।
सर्वमेवैतेनाप्येति ।
तस्य त्र्येणी शलली भवति लौहायसः क्षुरः ।
स चतुर्षु चतुर्षु मास्सु केशान्परिवर्तयतेऽनन्तताया असौ वा आदित्योऽनन्तः ।
अनन्तो वा असौ भूत्वेदं सर्वमभ्यश्नुतेऽनन्तो भूत्वेदं सर्वमभ्यश्नवा इति ।
अनन्तो भूत्वेदं सर्वमभ्यश्नवा इति २३४