२३३

अथ यदैन्द्रा ग्नो ब्रह्म वा अग्निः ।

क्षत्रमिन्द्रो ब्रह्मणा च ह वाव स तत्क्षत्रेण च सयुग्भ्यां वृत्रं पाप्मानं हनानीति ।

ब्रह्मणा च हैव क्षत्रेण च सयुग्भ्यां द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद ।

वैश्वकर्मणी तृतीयस्याह्नः प्रतिपद्भवति ।

वैश्वकर्मण्युपालम्भ्याग्नेयश्च माहेन्द्र श्च पशू ।

तद्यद्वैश्वकर्मणी प्रतिपद्भवति वैश्वकर्मण्युपालम्भ्या प्रजापतिर्वै विश्वकर्मा प्रजापतिमेव तदन्ततः प्रीणन्ति ।

अथो यदेव प्रजा वृत्रात्पाप्मनो मुमुचाना विश्वं कर्मोपाक्रमन्त तस्माद्वैश्वकर्मणी ।

आग्नेयः पशुर्यज्ञो वा अग्निर्नेद्यज्ञादग्नेरयामेति २३३