२३२

अथ यद्वारुणो निर्वरुणताया एव ।

ता अस्य प्रजा वरुणान्मुमुचाना वृत्रः पाप्मागृह्णात् ।

स षक्षत हन्तो न्वेवैना अभितो भिषज्यानीति ।

स एतांस्त्रिदिवान्साकमेधानपश्यत् ।

तानाहरत् ।

तैरयजत ।

तैरेना वृत्रात्पाप्मनोऽभ्यमुञ्चत् ।

तद्यदेते त्रिदिवास्साकमेधा भवन्ति वृत्रादेवैतैः पाप्मनः प्रजा मुञ्चति ।

ता अस्य प्रजा वृत्रात्पाप्मनो मुमुचानास्सर्वास्साकं समैधयन्त ।

यत्साकं समैधयन्त तत्साकमेधानां साकमेधत्वम् ।

साकं ह वै प्रजया पशुभिरेधते य एवं वेद ।

अनीकवती प्रथमस्याह्नः प्रतिपद्भवति ।

आग्नेयः पशुः ।

अग्निना वा अनीकेनेन्द्रो वृत्रं पाप्मानमहन् ।

तद्यदनीकवती प्रतिपद्भवत्यग्निनानीकेन वृत्रं पाप्मानं हनानीति ।

अग्निनैवानीकेन द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद ।

क्रीडनी द्वितीयस्याह्नः प्रतिपद्भवति ।

आग्नेयश्चैन्द्रा ग्नश्च पशू ।

तद्यत्क्रीडनी प्रतिपद्भवति यदेव प्रजा वृत्रात्पाप्मनो मुमुचाना आक्रीडन्त तस्मात्क्रीडनी ।

अथो हेन्द्रो वृत्रं हनिष्यन्मरुत उवाच परशुवधहस्ता मामभितः परिक्रीडत स वीतभीर्वृत्रं पाप्मानं हनानीति ।

तमु ह मरुतः परशुवधहस्ता अभितः परिचिक्रीडुः ।

स ह वीतभीर्वृत्रं पाप्मानमहन् ।

वीतभीर्ह वै द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद ।

आग्नेयः पशुर्यज्ञो वा अग्निर्नेद्यज्ञादग्नेरयामेति २३२