२३१

ता अस्य प्रजास्सृष्टा वरुणस्य यवमादन् ।

ता वरुणो वरुणपाशेनागृह्णात् ।

स षक्षत या अमूः पूर्वाः प्रजा असृक्षि परा ता अभूवन् ।

यदीमाः पराभवन्ति क्व ततो भवानि हैन्तैना अभितो भिषज्यानीति ।

स एतौ द्विदिवौ वरुणप्रघासावपश्यत् ।

तावाहरत् ।

ताभ्यामयजत ।

ताभ्यामेना वरुणीयादेनसो व्यमुञ्चत् ।

तद्यदेतौ द्विदिवौ वरुणप्रघासौ भवतो वरुणीयादेवैताभ्यामेनसः प्रजा मुञ्चति ।

मरुत्वती पूर्वस्याह्न प्रतिपद्भवति ।

आग्नेयश्च मारुतश्च पशू ।

ता अस्य प्रजा वरुणगृहीता मरुतो रन्ध्राण्यन्ववपातिनो व्यमिमथिषन्त ।

तद्यन्मरुत्वती प्रतिपद्भवति मरुत एवैतेन भागधेयेन निरवदायन्ते ।

आग्नेयपशुर्यज्ञो वा अग्निर्नेद्यज्ञादग्नेरयामेति ।

कवत्युत्तरस्याह्नः प्रतिपद्भवति कायोपालम्भ्या प्रजापतिर्वै कः प्रजापतिमेव तदन्ततः प्रीणन्ति ।

प्रजापतिर्वा षक्षत कं वै प्रजाभ्यो भूवं कमात्मनेऽसानीति ।

स एतां कवतीं प्रतिपदमपश्यत्कायामुपालम्भ्याम् ।

ततो वै स कं प्रजाभ्योऽभवत्कमात्मने ।

कं हैव प्रजाभ्यो भवति कमात्मने य एवं वेद ।

आग्नेयः पशुर्यज्ञो वा अग्निर्नेद्यज्ञादग्नेरयामेति २३१