२३०

सोऽकामयत वैश्वदेवीः प्रजास्सृजेयेति ।

स एतं वैश्वदेवं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

तेन वैश्वदेवीः प्रजा असृजत ।

स यः कामयेत वैश्वदेवीः प्रजास्सृजेयेति स एतेन यजेत ।

वैश्वदेवीरेव प्रजास्सृजते ।

स त्रिवृद्र थन्तरसामा भवति ।

ब्रह्म वै त्रिवृत् ।

ब्रह्म रथन्तरम् ।

ब्रह्मणा वा एनास्तदसृजत ।

ब्रह्मणैव प्रजास्सृजते य एवं वेद ।

तस्याग्नेयश्च बार्हस्पत्यश्च पशू भवतः ।

ब्रह्म वा अग्निः ।

ब्रह्म बृहस्पतिः ।

ब्रह्मणा वा एनास्तदभिपूर्वमसृजत ।

ब्रह्मणैवाभिपूर्वं प्रजास्सृजते य एवं वेद ।

तस्य मैत्रावरुण्यनूबन्ध्या भवति ।

मित्रो वै यज्ञस्य स्विष्टं गृह्णाति वरुणो दुरिष्टम् ।

तद्यन्मैत्रावरुण्यनूबन्ध्या भवति पुनरेवास्मै मित्रो ददाति ।

स्विष्टमस्मै वरुणः करोति ।

द्यावापृथिव्योपालम्भ्या भवति ।

द्यावापृथिवी वा आइक्षेतां यद्वा अयमिदं सृजत आवं वा अयमिदं प्रतिष्ठे पश्यन्सृजते हन्तास्मिन्भागधेयमिच्छावहा इति ।

तेऽस्मिन्भागधेयमैच्छेताम् ।

ताभ्यामेतां द्यावापृथिव्यामुपालम्भ्यामकल्पयत् ।

तद्यदेता द्यावापृथिव्योपालम्भ्या भवति द्यावापृथिवी एवैतेन भागधेयेन निरवदयन्ते ।

आग्नेयः पशुर्यज्ञो वा अग्निर्नेद्यज्ञादग्नेरयामेति २३०