२२९

स एतांश्चातुर्मास्यान्यज्ञानपश्यत् ।

तानाहरत् ।

तैरयजत ।

तैरिमाः प्रजा असृजत ।

या इमा स्तनवतीस्ताभ्योऽन्नाद्यं प्रायच्छत् ।

ता अस्यान्नवतीः प्रजा अभवन् ।

स यः कामयेत बहुः प्रजया पशुभिः प्रजायेयान्नवतीर्म इमाः प्रजा स्युरिति स एतैर्यजेत ।

बहुरेव प्रजया पशुभिः प्रजायतेऽन्नवतीरस्य प्रजा भवन्ति ।

तदेषाभ्यनूच्यते ।

तिस्रो ह प्रजा अत्यायमीयुर्

न्यन्या अर्कमभितो विविश्युः

बृहद्ध तस्थौ रजसो विमाने

पवमानो हरित आ विवेश

इति ।

तद्यदाह तिस्रो ह प्रजा अत्यायमीयुरिति या एव ताः प्रजा अत्यायमायंस्ता एव ताः ।

न्यन्या अर्कमभितो विविश्युरित्यग्निर्वा अर्कस्तमिमाः प्रजा अभितो विष्टाः ।

बृहद्ध तस्थौ रजसो विमाने पवमानो हरित आ विवेशेति ।

दिशो वै हरितः ।

ता अयं वायुः पवमान आविष्ट इति वाजसनेयः ।

अथैकादशाक्षी ।

तिस्रो ह प्रजा अत्यायमीयुरिति ।

या एव ताः प्रजा अत्यायमायंस्ता एताः ।

न्यन्या अर्कमभितो विविश्युरित्यन्नं वा अर्कस्तदिमाः प्रजा अभितो विष्टाः ।

बृहद्ध तस्थौ रजसो विमान इति ।

मनो वै बृहत् ।

तदिदं रजसो विमाने मध्य आत्मनो हृदयं तत् ।

पवमानो हरित आ विवेशेति ।

प्रजा वै हरितः ।

ता अयं प्राणः पवमान आविष्ट इति २२९