२२८

अथैते चातुर्मास्याः ।

प्रजापतिः प्रजा असृजत ।

ता अस्य सृष्टाः पराभवन् ।

तदिदं सरीसृपमभवद्यदन्यत्सर्पेभ्यः ।

स द्वितीया असृजत ।

ता अस्य परैवाभवन् ।

ते मत्स्या अभवन् ।

स तृतीया असृजत ।

ता अस्य परैवाभवन् ।

तानि वयांस्यभवन् ।

स षक्षत या इमास्त्रयीः प्रजा असृक्ष्यृते ब्रह्मण ऋतेऽन्नाद्यादृते यज्ञात्परा ता अभूवन् ।

हन्तो न्वेव ब्रह्मणोऽन्नाद्याद्यज्ञात्प्रजास्सृजा इति ।

सोऽन्नाद्यमात्मन्नधत्त ।

तदभ्यस्तनयत् ।

तत्प्राक्प्रैषत् ।

तौ स्तनावभवताम् ।

यदभ्यस्तनयत्तत्स्तनयो स्तनत्वम् ।

तदत्यक्षरत् ।

तत्क्षीरमभवत् ।

यदत्यक्षरत्तत्क्षीरस्य क्षीरत्वम् ।

व्रीहियवौ ह वाव स तदात्मन्दधे ।

तदेतद्व्रीहियवयोः क्षीरम् ।

स षक्षतालं वै तस्मा अस्मि सृजेयेत्तदन्नं लभेत यत्सृजेय हन्त सृजा इति २२८