२२७

अथैष कनिष्ठानामग्रकामाणाम् ।

तस्य त्रिवृतस्सतश्चतुर्विंशं बहिष्पवमानम् ।

ते ये कनिष्ठा अग्रकामा स्युस्त एतेन यजेरन् ।

तद्यत्त्रिवृतस्सतश्चतुर्विंशं बहिष्पवमानं भवति चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सरो वा अग्रं ज्यैष्ठ्यं स योऽग्रं ज्यैष्ठ्यं स नोऽग्रं ज्यैष्ठ्यं गमयादिति ।

स त्रिवृद्भवति ।

त्रिवृद्वै स्तोमानामग्रं ज्यैष्ठ्यम् ।

स योऽग्रं ज्यैष्ठ्यं स नोऽग्रं ज्यैष्ठ्यं गमयादिति ।

स गायत्रीषु भवति ।

गायत्री वै छन्दसामग्रं ज्यैष्ठ्यम् ।

सा याग्रं ज्यैष्ठ्यं सा नोऽग्रं ज्यैष्ठ्यं गमयादिति ।

तस्य रथन्तरं पृष्ठं भवति ।

रथन्तरं वै पृष्ठानामग्रं ज्यैष्ठ्यम् ।

तद्यदग्रं ज्यैष्ठ्यं तन्नोऽग्रं ज्यैष्ठ्यं गमयादिति ।

तस्य द्वादश स्तोत्राणि भवन्ति ।

द्वादश मासास्संवत्सरः ।

संवत्सरो वा अग्रं ज्यैष्ठ्यम् ।

स योऽग्रं ज्यैष्ठ्यं स नोऽग्रं ज्यैष्ठ्यं गमयादिति ।

तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति ।

चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सरो वा अग्रं ज्यैष्ठ्यम् ।

स योऽग्रं ज्यैष्ठ्यं स नोऽग्रं ज्यैष्ठ्यं गमयादिति ।

गच्छन्ति ह कनिष्ठास्सन्तो ज्येष्ठताम् २२७