ताः केशिनीर्भवन्ति ।
ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यमिति केशैरिव ह्येते चरन्ति ।
अथैष कुषीतगृहपतीनामैषीकपावानां षोडशपवमानः ।
इन्द्रि यं वै वीर्यं षोडशी ।
आरभमाणा एवेन्द्रि येण वीर्येण समृध्यामहा इति ।
त्रीणि पञ्चदशान्याज्यानि भवन्ति ।
क्षत्रं वै पञ्चदशः ।
क्षत्रेणैव तत्समृध्यन्ते ।
षोडशमच्छावाकस्य ।
इन्द्रि यं वै वीर्यं षोडशी ।
इन्द्रि येणैव तद्वीर्येण समृध्यन्ते ।
षोडशो माध्यन्दिनः ।
तद्द्वात्रिंशत् ।
द्वात्रिंशदक्षरानुष्टुप् ।
योऽनुष्टुभि कामस्स न उपाप्तोऽसदिति ।
त्रीणि सप्तदशानि पृष्ठानि भवन्ति ।
प्रजापतिर्वै सप्तदशः ।
प्रजापतिनैव तत्समृध्यन्ते ।
षोडशमच्छावाकस्य ।
इन्द्रि यं वै वीर्यं षोडशी ।
इन्द्रि येणैव तद्वीर्येण समृध्यन्ते ।
षोडश आर्भवः ।
तद्द्वात्रिंशद् ।
द्वात्रिंशदक्षरानुष्टुप् ।
योऽनुष्टुभि कामस्स न उपाप्तोऽसदिति ।
एकविंशमग्निष्टोमसाम ।
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
एतस्य वा एते सलोकतां गच्छन्ति एतमभ्यारोहन्ति २२६