२२५

अथैता नदं व ओदतीनामित्युष्णिहाभाजनमार्भवे पवमाने क्रियन्ते ।

तास्सप्ताक्षरपदा भवन्ति ।

सप्त प्राणाः ।

प्राणैरेव तत्समृध्यमाना यन्ति ।

प्राणेषु प्रतितिष्ठन्ति ।

उत ह्यहिंस्यं ब्राह्मणं हिंसन्ति श्रोत्रियं वा गृहमेधिनं वा ।

तद्यत्सप्ताक्षरपदा भवन्ति प्राणैरेव तत्समृध्यन्ते ।

ताश्चतुष्पदा भवन्ति प्रतिष्ठायै ।

चतुष्पदीव प्रत्यष्ठादिति वा आहुः ।

सुप्रतिष्ठितं तास्वभीवर्तः ।

वाग्वा अभीवर्तः ।

वाचो वा एते व्यृध्यन्ते ये व्रात्यां धावयन्ति ।

तद्यदभीवर्तो भवति वाचैव तत्समृध्यन्ते ।

अग्न आ याह्यग्निभिरित्यग्निष्टोमसाम भवति ।

अग्नयो वै सर्वे देवाः ।

सर्वानेव तेन देवानपियन्ति ।

तत्त्रयस्त्रिंशं भवति ।

त्रयस्त्रिंशद्वै सर्वा देवताः ।

सर्वास्वेवैतद्देवतासु यज्ञस्यान्ततः प्रतितिष्ठन्ति २२५