२२४

अथैते उष्णिक्ककुभौ माध्यन्दिनं सवनमभि प्रत्याहरन्ति ।

प्रजा वै छन्दसामुष्णिक्ककुभौ ।

तयोर्बृहतो मारुतस्य सामनी भवतः ।

द्यौताने वा देवसामे ।

छन्दांसि वै स्वर्गो लोकः ।

स यथा प्रियं पुत्रमारभ्य याचेत्सखा वा सखायमनुसंविदमेवमेवैतत्सर्वाणि छन्दांस्यारभ्य मध्यतो वियन्ति ।

तयोरन्यतरस्यां ब्रह्मसाम ।

ब्रह्म वै ब्रह्मसाम ।

यजमानकामो वा एष यद्ब्रह्मसाम ।

स्व एव तदायतने यजमानं कामैस्समर्धयन्ति ।

सप्तदशं होतुः पृष्ठं भवति ।

प्रजापतिर्वै सप्तदशः ।

प्रजापतिमेवैतन्मध्यतो वियन्ति ।

एकविंशं मैत्रावरुणस्य ।

द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।

एतमेवैतन्मध्यतो वियन्ति ।

त्रिणवं ब्राह्मणाच्छंसिनः ।

त्रिणवा इमे लोकाः ।

इमानेवैतल्लोकान्मध्यतो वियन्ति ।

षोडशमच्छावाकस्य ।

इन्द्रि यं वै वीर्यं षोडशी ।

इन्द्रि येणैव तद्वीर्येण समृध्यन्ते ।

षोडशमु एवादोऽच्छावाकस्य ।

तद्द्वात्रिंशत् ।

द्वात्रिंशदक्षरानुष्टुप् ।

योऽनुष्टुभि कामस्स न उपाप्तोऽसदिति २२४