२२३

सो वा आग्नेयी भवति ।

अग्निर्वै लोकानां प्रज्ञपयिता ।

स यो लोकानां प्रज्ञपयिता स नो लोकान्प्रज्ञपयादिति ।

न हि ते अग्ने तन्वै क्रूरं विवेद मर्त्य इति यदिह क्रूरमशान्तमचारिष्म तदेतयापहनामहा इति ।

कपिर्बिभस्ति तेजनं पुनर्जरायु गौरिवेति पुनरेवैतयापियन्ति ।

अग्ने विश्वेभिरग्निभिरिति वैश्वाग्नमाज्यं भवति ।

अग्नयो वै विश्वे देवाः ।

विश्वानेव तेन देवानपियन्ति ।

तदानुष्टुभं भवति सवनमुखे सवनमुखे वाचा समृध्यामहा इति ।

तत्त्रिवृद्भवति ब्रह्म वै त्रिवृत् ।

ब्रह्मणो वा एते व्यृध्यन्ते ये व्रात्यां धावयन्ति ।

राजपुत्रा इति ह्येनानाचक्षते ।

तद्यत्त्रिवृद्भवति ब्रह्मणैव तत्समृध्यन्ते ।

पञ्चदशं मैत्रावरुणस्य ।

क्षत्रं वै पञ्चदशः ।

अपभ्रंशो ह वै ब्रह्मणः क्षत्रम् ।

क्षत्रेणैव तत्समृध्यन्ते ।

सप्तदशं ब्राह्मणाच्छंसिनः ।

प्रजापतिर्वै सप्तदशः ।

प्रजापतिनैव तत्समृध्यन्ते ।

षोडशमच्छावाकस्य ।

इन्द्रि यं वै वीर्यं षोडशी ।

इन्द्रि येणैव तद्वीर्येण समृध्यन्ते २२३