वाचा ह्यपूतममेध्यं वदन्ति ।
तेषामिन्द्रि यं वीर्यं वाचोऽपक्रामति ।
तद्यदनुष्टुप्प्रतिपद्भवति अभिपूर्वमेव तद्वाचा समृध्यन्ते ।
सो वा अर्बुदस्यर्क्षु भवति ।
अर्बुदो वै सर्प एताभिर्मृतां त्वचमपाहत ।
म्रियन्ते इव वा एते ये व्रात्यां धावयन्ति ।
उत हि स्थविरतरस्यान्त आहनस्यं वदन्ति ।
मृतामेवैताभिस्त्वचमपघ्नते २२२