२२१

अथैते व्रात्यस्तोमाः ।

दिव्या वै व्रात्या व्रात्यामधावयन्बुधेन स्थपतिना ।

त एते व्रात्या आर्छन्निमं वैव योऽयं पवत ईशानं वा देवम् ।

तान्यज्ञस्यात्याविध्यत् ।

ते स्वर्गं लोकं न प्राजानन् ।

तेऽकामयन्त प्र स्वर्गं लोकं जानीयामेति ।

ते प्रजापतिमेवोपाधावन् ।

तेभ्य एतं व्रात्यस्तोमं यज्ञं व्यदधात् ।

तमाहरन् ।

तेनायजन्त ।

ततो वै ते स्वर्गं लोकं प्राजानन् ।

मुह्यन्तीव वा एते ये व्रात्यां धावयन्ति ।

तद्यद्व्रात्यस्तोमेन यजन्ते स्वर्गस्यैव लोकस्यानुख्यात्यै ।

तस्य द्वात्रिंशाः पवमाना भवन्ति ।

द्वात्रिंशदक्षरानुष्टुप् ।

वागनुष्टुप् ।

वाचो वा एते व्यृध्यन्ते ये व्रात्यां धावयन्ति ।

तद्यद्द्वात्रिंशाः पवमाना भवन्ति वाचैव तत्समृध्यन्ते ।

अनुष्टुप्प्रतिपद्भवति ।

वाग्वा अनुष्टुप् ।

वाचो वा एते व्यृध्यन्ते ये व्रात्यां धावयन्ति २२१