२२०

तदु हागस्त्यः पश्चेवानुबुबुध ऋषयो ह वा इमे प्रजा अस्मिल्ँ लोकेविधाय स्वर्गं लोकमग्मन्निति ।

सोऽकामयताहमपि प्रजा अस्मिल्ँ लोके विधाय स्वर्गं लोकमनुगच्छेयमिति ।

स एतं षोडशं स्तोममपश्यत् ।

तमाहरत् ।

तेनायजत ।

स्वर्गो लोकष्षोडश स्तोमानाम् ।

ततो वै स प्रजा अस्मिल्ँ लोके विधाय स्वर्गं लोकमन्वगच्छत् ।

प्रजामेवास्मिल्ँ लोके विधाय स्वर्गं लोकमनुगच्छति य एवं वेद ।

तस्माद्यदागस्त्यो ब्राह्मणान्प्राप्नोत्यनुचर इवैव भवति ।

अनुचर इव ह्येष स्तोमानां यत्षोडशः ।

तस्माद्वगस्तयो बहिर्धेव कुरुपञ्चालेभ्यः ।

बहिर्धेव ह्येष स्तोमेभ्यो यत्षोडशः २२०