२१९

अथाकामयतात्रिर्भूयिष्ठा म ऋषयः प्रजायामाजायेरन्निति स एतं त्रिणवं स्तोममपश्यत् ।

तमाहरत् ।

तेनायजत ।

तेजो वै त्रिणव स्तोमानाम् ।

ततो वै तस्य भूयिष्ठा ऋषयः प्रजायामाजायन्त परस्सहस्रा हास्य प्रजायां मन्त्रकृत आसुरपि हास्य स्त्रियो मन्त्रकृत आसुः ।

तस्माद्योऽप्यात्रेयीं स्त्रियं हन्ति तं पर्येव चक्षते ।

तेजस्वी भवति य एवं वेद ।

अथाकामयत विश्वामित्रो राज्यं मे प्रजा गच्छेदिति ।

स एतं त्रयस्त्रिंशं स्तोममपश्यत् ।

तमाहरत् ।

तेनायजत ।

क्षत्रं वै त्रयस्त्रिंश स्तोमानाम् ।

ततो वै तस्य राज्यं प्रजागच्छत् ।

अष्टको हास्य प्रजायामभिषिषिचे ।

गच्छति राज्यं य एवं वेद ।

ततो वै ते प्रजा अस्मिल्ँ लोके विधाय स्वर्गं लोकमगच्छन् ।

प्रजामेवास्मिल्ँ लोके विधाय स्वर्गं लोकं गच्छति य एवं वेद २१९