अथाकामयत जमदग्निर्भूमानं प्रजया पशुभिर्गच्छेयमिति ।
स एतं सप्तदशं स्तोममपश्यत् ।
तमाहरत् ।
तेनायजत ।
भूमा वै प्रजापतिः सप्तदश स्तोमानाम् ।
ततो वै स भूमानं प्रजया पशुभिरगच्छत् ।
भूमानमेव प्रजया पशुभिर्गच्छति य एवं वेद ।
अथाकामयत गोतम श्रद्धानीया मे प्रजा ब्रह्मवर्चसिनी स्यादिति ।
स एतमेकविंशं स्तोममपश्यत् ।
तमाहरत् ।
तेनायजत ।
श्रद्धा वै ब्रह्मवर्चसमेकविंश स्तोमानाम् ।
असौ हि स आदित्यः ।
ततो वै तस्य श्रद्धानीया ब्रह्मवर्चसिनी प्रजाभवत् ।
त इमेऽप्येतर्हि गौतमा श्रद्धानीयाश्चैव ब्रह्मवर्चसिनश्च ।
श्रद्धानीयो ब्रह्मवर्चसी भवति य एवं वेद २१८