२१७

अथैत ऋषिष्टोमाः ।

ऋषयो ह वै स्वर्गं लोकं जिग्युः श्रमेण तपसा व्रतचर्येण ।

तेऽकामयन्त प्रजा अस्मिल्ँ लोके विधाय स्वर्गं लोकं गच्छेमेति ।

स वसिष्ठोऽकामयताग्र्या मे मुख्या प्रजा स्यादिति ।

स एतं त्रिवृतं स्तोममपश्यत् ।

तमाहरत् ।

तेनायजत ।

अग्रं वै मुखं त्रिवृत्स्तोमानाम् ।

ततो वै तस्याग्र्या मुख्या प्रजाभवत् ।

त एतेऽप्येतर्हि वसिष्ठाः कुरुष्वग्र्याश्चैव मुख्याश्च मन्यन्ते ।

अग्र्यो मुख्यो भवति य एवं वेद ।

अथाकामयत भरद्वाज ओजिष्ठा मे बलिष्ठा प्रजा स्यादिति ।

स एतं पञ्चदशं स्तोममपश्यत् ।

तमाहरत् ।

तेनायजत ।

ओजो वै बलं पञ्चदश स्तोमानाम् ।

ततो वै तस्यौजिष्ठा बलिष्ठा प्रजाभवत् ।

अपि ह स्म तेन पथा पुरा कुरवो न यान्ति येन भरद्वाजा ययुः ।

अथो ह स्मोत्क्रोशन्ति भारद्वाजबलमिति ।

तस्मादु भारद्वाज एवानुज्ञातः सभायां दण्ड्यं प्रहरेत् ।

ओजिष्ठो बलिष्ठो भवति य एवं वेद २१७