त उ वै पञ्च पञ्चविंशा भवन्ति ।
ततो या विंशतिर्विराट्सा ।
अथ याश्चतस्र इमा एव ताश्चतस्रो दिशः ।
अथ या पञ्च पञ्चविंशीयमेव सोर्ध्वा दिक् ।
दिशो ह वै दिवं दुह्रे द्यौर्वा दिशो दुहे ।
प्र ह वै दिशां च दिवश्च दोहमाप्नोति य एवं वेद ।
स यः कामयेत समानेन यज्ञेन समानीमृद्धिमृध्नुयां प्रतितिष्ठेयमनन्तं स्वर्गं लोकं जयेयमिति स एतैर्यजेत ।
स ह महदेवाभि देवयजनं जोषयेत ।
तत्पञ्च शालाः कर्तवै ब्रूयादिहैकामिहैकामिहैकामिहैकां मध्य एकाम् ।
सोऽनेन रथन्तरसाम्ना यजेत ।
स एतामेवर्द्धिमृध्नोत्येतां प्रतिष्ठामेतमनन्तं स्वर्गं लोकं जयति ।
अथानेन बृहत्साम्ना यजेताथानेन रथन्तरसाम्ना यजेताथानेन बृहत्साम्ना यजेताथानेनोभयसाम्ना यजेत ।
स एतामेवर्द्धिमृध्नोत्येतां प्रतिष्ठामेतमनन्तं स्वर्गं लोकं जयति एतामेव दिशमप्येति ।
स ह दिशामेवैको भवति दिश एवाप्येति ।
तस्यैषोऽनन्त स्वर्गो लोको जितो भवति ।
य एष दिशां तेषु यानि दिङ्निधनानि यानि विण्णिधनानि सामानि तान्यवकल्पयन्ति स्वर्ग्याणि स्वर्गस्य लोकस्य समष्ट्या अहोरूपाणां च समृद्ध्यै २१६