२१५

तदाहुः पृष्ठान्येवोपेत्यानीति ।

पृष्ठाद्वाव पृष्ठमुपेयात् ।

पृष्ठानि हि दिश इति ।

स रथन्तरसामैव प्रथम स्यादथ बृहत्सामाथ वैरूपसामाथ वैराजसामाथ शक्वरीसामाथ रेवतीसामोत्तम स्यादिति ।

तदु वा आहुर्दीक्षोपसद्भिस्सुत्यायै पृष्ठानि व्यवच्छिद्येरन् ।

यदेवं कुर्युर्दूरे दूर इव वै पृष्ठान्युपयन्ति ।

पृष्ठं वाव पृष्ठमभिवोढुमर्हति ।

उपजो वा एषा बृहद्र थन्तरयोर्यदेतानि सामानि ।

बृहद्र थन्तरे वै विच्छिन्नस्य यज्ञस्य सन्तत्यौ ।

तस्माद्बृहद्र थन्तराभ्यामेव स्युरिति ।

स रथन्तरसामैव प्रथम स्यादथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामाथ रथन्तरसामा च बृहत्सामा चोत्तम स्यादिति २१५