२१४

अथैते दिशां स्तोमाः ।

दिशो वा अकामयन्त समानेन यज्ञेन समानीमृद्धिमृध्नुयाम प्रतितिष्ठेमानन्तं स्वर्गं लोकं जयेमेति ।

ता एतान्यज्ञानपश्यन् ।

तानाहरन्त ।

तैरयजन्त ।

सेयं प्राची दिक्प्रथमायजत ।

सैतेनायजत ।

सैतामेवर्द्धिमार्ध्नोदेतां प्रतिष्ठामेतमनन्तं स्वर्गं लोकमजयत् ।

स एष एतस्यानन्त स्वर्गो लोको जितः ।

स यो ह वा अपि बहून्येवाहानि प्राङियान्नैवैतस्या अन्तं विन्देत् ।

अथेयमूर्ध्वा दिगैक्षत येनैवेमाः पूर्वा इष्ट्वारात्सुस्तेनो एवाहं यजा इति ।

सैतेनैवायजत ।

सैतामेवर्द्धिमार्ध्नोदेतां प्रतिष्ठामेतमनन्तं स्वर्गं लोकमजयत् ।

स एष एतस्यानन्त स्वर्गो लोको जितः ।

स यो ह वा अपि बहून्येवाहान्यूर्ध्व इयान्नैवैतस्या अन्तं विन्देत् २१४