२१३

स हर्तूनामेवैको भवति ।

ऋतूनेवाप्येत्यक्षय्यं हास्याव्यवच्छिन्नं सुकृतं भवति ।

पुनर्नवः पुनर्नवो हैव सुकृतेनाप्यायमान एति ।

ते पञ्च स्तोत्र्या भवन्ति ।

यः पाङ्क्तो यज्ञो ये पाङ्क्ताः पशवो यत्पाङ्क्तमन्नाद्यं ये पञ्चर्तवो यत्किं च पञ्च पञ्च तस्यैषा सर्वस्यर्द्धिस्तस्योपाप्तिः ।

तेषामु एकैकस्य षष्टि षष्टि स्तोत्र्या भवन्ति ।

तावतीरृतो रात्रयः ।

तेनर्तून्नातिष्टुवन्ति ।

तेषामु सर्वेषां त्रीणि षष्टिशतानि स्तोत्र्या भवन्ति ।

तावतीष्संवत्सरस्य रात्रयः ।

रात्रिश एव तत्संवत्सरमाप्नुवन्ति ।

तदाहुः पृष्ठान्येवोपेत्यानीति ।

पृष्ठाद्वाव पृष्ठमुपेयात् ।

पृष्ठानि ह्यृतव इति ।

स रथन्तरसामैव प्रथम स्यादथ बृहत्सामाथ वैरूपसामाथ वैराजसामाथ शक्वरीसामाथ रेवतीसामोत्तम स्यादिति ।

तदु वा आहुर्दीक्षोपसद्भिस्सुत्यायै पृष्ठानि व्यवच्छिद्येरन् ।

यदेवं कुर्युर्दूरे दूर इव वै पृष्ठान्युपयन्ति ।

पृष्ठं वाव पृष्ठमभिवोढुमर्हति ।

उपजो वा एषा बृहद्र थन्तरयोर्यदेतानि सामानि ।

बृहद्र थन्तरे वै विच्छिन्नस्य यज्ञस्य सन्तत्यौ ।

तस्माद्बृहद्र थन्तराभ्यामेव स्युरिति ।

स रथन्तरसामैव प्रथम स्यादथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामाथ रथन्तरसामाथ बृहत्सामोत्तम स्यादिति ।

तेषु यान्यृतुनिधनानि यान्यृतुनिधनानि सामानि तान्यवकल्पयन्ति स्वर्ग्याणि स्वर्गस्य लोकस्य समष्ट्या अहोरूपाणां च समृद्ध्यै २१३