शश्वद्धैषामेष एवर्द्धतमः ।
एतं ह्येव प्राप्य गोरश्वस्य पुरुषस्यैतमेव रूपमभ्यवैति ।
तदेतदनन्तं देवचक्रमक्षितं पुनर्नवमा च परा च परिवर्तते ।
स य एतदेवं वेदैतामेवानन्ततामेतामक्षितिमेतां पुनर्नवतां जयति ।
स यः कामयेत समानेन यज्ञेन समानीमृद्धिमृध्नुयामावान्नाद्यं रुन्धीय पुनर्नवः पुनर्नव स्यामिति स एतैर्यजेत ।
स वसन्ते प्रथमेन यजेत ।
स एतामेवर्द्धिमृध्नोति एतदन्नाद्यमवरुन्द्ध एतां पुनर्नवतां यैषा वसन्तस्य ।
ग्रीष्मे द्वितीयेन यजेत ।
वर्षासु तृतीयेन यजेत ।
शरदि चतुर्थेन यजेत ।
हेमन्पञ्चमेन यजेत ।
शिशिरे षष्ठेन यजेत ।
स एतामेवर्द्धिमृध्नोत्येतदन्नाद्यमवरुन्द्ध एतां पुनर्नवतां यैषा शिशिरस्य २१२