२११

अथैत ऋतुष्टोमाः ।

ऋतवो वा अकामयन्त समानेन यज्ञेन समानीमृद्धिमृध्नुयामावान्नाद्यं रुन्धीमहि पुनर्नवाः पुनर्नवा स्यामेति ।

त एतान्यज्ञानपश्यन् ।

तानाहरन्त ।

तैरयजन्त ।

स वसन्तः प्रथमोऽयजत ।

स एतेनायजत ।

स एतामेवर्द्धिमार्ध्नोदेतदन्नाद्यमवारुन्द्धैतां पुनर्नवतां यैषा वसन्तस्य ।

अथ शिशिर षक्षत येनैवैमे पूर्वा इष्ट्वारात्सुस्तेनो एवाहं यजा इति ।

स एतेनैवायजत ।

स एतामेवर्द्धिमार्ध्नोदेतदन्नाद्यमवारुन्द्धैतां पुनर्नवतां यैषा शिशिरस्य २११