२१०

त एतं विश्वे देवास्त्रयस्त्रिंशं स्तोममपश्यन् ।

तमाहरन्त ।

तदाहुः कतमे विश्वे देवा इति ।

एता एव पञ्च देवतास्सम्पद्य एव विश्वे देवा भवन्तीति ह ब्रूयात् ।

त एतेन विश्वे देवास्त्रयस्त्रिंशेन स्तोमेन समयजन्त ।

तत्त्रयस्त्रिंशद्वै देवतास्त्रयस्त्रिंशद्देवलोकाः ।

ततो वै ते नाके स्वर्गे लोकेऽसीदन् ।

तेऽब्रुवन्नसदाम वै स्वर्गे लोके नाक इति ।

यद्वब्रुवन्नसदाम वै स्वर्गे लोके नाक इति तन्नाकसदां नाकसत्त्वम् ।

अपि सो ह वै नाके स्वर्गे लोके सीदति य एवं वेद ।

तेषूभे उभेसामनी भवत उभाभ्यां हि तत्र गच्छति यत्र जिगमिषति ।

तेषु यानि सुवर्निधनानि यानि ज्योतिर्निधनानि सामानि तान्यवकल्पयन्ति स्वर्ग्याणि स्वर्गस्य लोकस्य समष्ट्या अहोरूपाणां च समृद्ध्यै २१०