अथ रुद्राः कृततरं पन्थानमपश्यन् ।
त एकेनैव त्रिवृतेमं लोकं प्रायुवन् ।
त्रिभिः पञ्चदशैरन्ववास्यन् ।
एकेनैव त्रिवृतेममन्तरिक्षं लोकं प्रायुवन् ।
त्रिभिस्सप्तदशैरन्ववास्यन् ।
एकेनैव त्रिवृतामुं लोकं प्रायुवन् ।
त्रिभिरेकविंशैरन्ववास्यन् ।
तद्यथा ह वै कृतस्य पथो यत्तत्त्रिविषमम् ।
तत्पश्चात्समं कुर्वन्नेवमेव तद्रुद्रा आयन् ।
अथादित्याश्चतुर्भिरेव त्रिवृद्भिश्चतुर्भिर्पञ्चदशैस्त्रिभिस्सप्तदशैरेकेनैकविंशेन कृतेन पथायन् ।
अथाङ्गिरसस्त्रिभिरेव त्रिवृद्भिः पञ्चदशैस्त्रिभिस्सप्तदशैस्त्रिभिरेकविंशैर्विराट्स्वराजेन पृथगेवायन् ।
त्रिणवेनैव मरुत आयन् ।
ओजो वै वीर्यम् ।
मरुत ओजो वीर्यम् ।
त्रिणवस्तेऽत ओजसैव वीर्येणायन् ।
त्रयस्त्रिंशेनैव विश्वे देवा आयन् ।
ते स्वर्गं लोकं गत्वा सार्धमेवाव्यवसिता आसन् ।
तेऽकामयन्त वयमपि नाके स्वर्गे लोके सीदेमेति २०९