ते वसवः प्रथम आयन् ।
ते त्रिभिरेव त्रिवृद्भिरिमं लोकं प्रायुवन्नेकेन पञ्चदशेनान्ववास्यन् ।
त्रिभिरेव त्रिवृद्भिरिममन्तरिक्षं लोकं प्रायुवन् ।
एकेन सप्तदशेनान्ववास्यन् ।
त्रिभिरेव त्रिवृद्भिरमुं लोकं प्रायुवन् ।
एकेनैकविंशेनान्ववास्यन् ।
तद्यथा ह वै परशोस्तिग्म यथाग्निर्देवतानामेवमेष यत्त्रिवृत्स्तोमः ।
तद्यथा परशुना पुरस्तात्संवृश्च्यन्नियादग्निना पश्चात्समं कुर्वन्नेवमेव तद्वसवस्त्रिवृता स्तोमेनेमाल्ँ लोकान्प्रायुवन् ।
तद्यदिमाल्ँ लोकान्प्रायुवंस्तस्मादु हैते प्रयुतो नामापि स्तोमाः ।
तद्यथाग्निदग्धे सुगेऽवस्यन्नियादेवमेव तद्वसव आयन् ।
तस्मात्ते परार्ध्या देवानाम् ।
ते हि प्रथम आयन् २०८