२०७

अथैते नाकसदः ।

स्वर्गं ह वै लोकं देवा अभ्यारुरुहुः ।

ते स्वर्गं लोकं गत्वा सार्धमेवाव्यवसिता आसन् ।

तेऽकामयन्त नाके स्वर्गे लोके व्यवस्येमेति ।

त एतान्नाकसद स्तोमानपश्यन् ।

तानाहरन्त ।

तैरयजन्त ।

ततो वै ते नाके स्वर्गे लोके व्यवास्यन् ।

यन्नाके स्वर्गे लोके व्यवास्यंस्तन्नाकसदां नाकसत्त्वम् ।

वि ह वै नाके स्वर्गे लोकेऽवस्यति य एवं वेदेति ह स्माह जानश्रुतेयः ।

अथ ह स्माह वैतहव्योऽस्मिन्नेवाग्रे लोके प्रजापतिर्देवानसृजतेति ।

अथ हेम ऊर्ध्वा लोकाः कृन्तत्रारण्यान्येवासुररथयाना यथा वनाकक्षा एवमप्रेताः ।

ते देवा अकामयन्त स्वर्गं लोकमियामेति २०७