२०६

अथैष त्रिष्टोमोऽग्निष्टोमः ।

प्रतिष्ठाकामो हैतमाहरेत ।

तदाहुः प्रेव वा एषोऽस्माल्लोकाच्च्यवते यस्सूयत इति ।

तद्यत्त्रिष्टोमो भवति त्रयो वा इमे लोका एष्वेव तल्लोकेषु प्रतितिष्ठति ।

अथो हैष धृतिरेव नाम यज्ञक्रतुः ।

तस्य रथन्तरं पृष्ठं भवति ।

तेन हैतेनाभिप्रतारणो राजा नेजे ।

द्विरात्रान्तं हैव चक्रे ।

तमु ह ब्राह्मण उवाच परा कुरवः कुरुक्षेत्रं जेष्यन्ते ।

प्रजामेवाहरत न क्षेत्राणीति ।

त एते कुरवः कुरुक्षेत्रं पराजित्य चरन्ति सल्वा एते कुरुक्षेत्रे ।

स वा एष क्षेत्राणामेव धृत्या ह्रियते यत्त्रिष्टोमोऽग्निष्टोमः २०६